शिव-स्तुतिः


वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं  मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्य शशाङ्क - वह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १ ॥
वन्दे सर्वजगद् विहारमतुलं वन्देऽन्धक - ध्वंसिनं
वन्दे देवशिखामणि शशिनिभं वन्दे हरेर्वल्लभम् । 
वन्दे नाग भुजङ्ग - भूषणधरं वन्दे शिवं चिन्मयं 
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २ ॥
वन्दे दिव्यमचिन्त्यमद्वयमहं वन्देऽर्कदर्पापहं
वन्दे निर्मूलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।
वन्दे सत्यमनन्तमाद्यमभयं वन्देऽतिशान्ताकृतिम् 
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३ ॥
वन्दे भूरथमम्बुजाक्ष विशिखं वन्दे श्रुतीघोटकं
वन्दे शैलशरासनं फणिगुणं वन्देऽधितूणीरकम् ।
वन्दे पद्मजसारथिं पुरहरं  वन्दे  महाभैरवं
वन्दे भक्तजनाश्रयं वरदं वन्दे शिवं शङ्करम् ॥ ४ ॥
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं
वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् ।
वन्दे भस्मकृत त्रिपुण्ड्रजटिलं वन्देऽष्टमूर्त्यात्मकं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५ ॥
वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिं 
वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम्
वन्दे विप्र - सुरार्चितांघ्रि कमलं वन्दे भगाक्षापहं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ।। ६ ।।
वन्दे मङ्गलराजताद्रि निलयं वन्दे सुराधीश्वरं 
वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।
वन्दे कुण्डलिराज कुण्डलधरं वन्दे सहस्राननं 
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ।। ७ ।।
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणं  
वन्दे भूतगणेशमव्ययमहं वन्देऽर्थ  राज्य प्रदम्।
वन्दे सुन्दर सौरभेय गमनं वन्दे त्रिशूला युधं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ।। ८ ।।
वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देऽन्धकारापहं 
वन्दे रावण नन्दि भृङ्गि विनतं वन्दे सुपर्णावृतम् । 
वन्दे शैलसुतार्धभागवपुषं वन्दे भयं त्र्यम्बकं 
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ।। ९ ।।
वन्दे पावनमम्बरात्मविभवं वन्दे महेन्द्रेश्वरं 
वन्दे भक्तजनाश्रयाभरतरुं वन्दे नताभीष्टदम्।
वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीश्वरं 
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ।।१०।।



 इति शिव-स्तुतिः सम्पूर्णा ।।


Pandit ji for puja 
Sanskrit Acharya Pandit Mani Bhushan
Contact No :- +917042351165
Website:- https://www.panditforworship.com