पुष्पदन्त उवाच
महिम्नः पारं ते परम विदुषो यद्यसदृशी।
स्तुतिर् ब्रह्मादी नामपि तदवसन्नास् त्वयि गिरः॥
अथाऽवाच्यः सर्वः स्वमति परिणामा वधि गृणन्।
ममाऽप्येषः स्तोत्रे हर निर पवादः परिकरः॥
अतीतः पन्थानं तव च महिमा वाङ् मनसयोरतद्।
व्यावृत्त्या यं चकित मभि धत्ते श्रुति रपि ॥
स कस्य स्तोतव्यः कतिविध गुणः कस्य विषयः।
पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥
मधुस्फीता वाचः परमम मृतं निर्मित वतस्तव।
ब्रह्मन् किं वागपि सुर गुरोर् विस्मय पदम्॥
मम त्वेतां वाणीं गुण कथन पुण्येन भवतः।
तवैश् वर्यं यत्तज् जगदु दय रक्षा प्रलय कृत्।
त्रयी वस्तु व्यस्तं तिसृषु गुण भिन्ना सु तनुषु॥
अभव्या नामस्मिन् वरद रमणीया मर मणीं।
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥
किमीहः कि कायः खलु किमुपाय स्त्रि भुवनं।
किमाधारो धाता सृजति किमुपा दान इति च॥
अतर्क्यै श्वर्ये त्वय्य नवसर दुःस्थो हतधियः।
कुतर्कोऽयं कांश्चिन् मुखरयति मोहाय जगतः॥
अजन्मानो लोकाः किमव यव वन्तोऽपि जगताम।
धिष्ठा तारं किं भव विधि रना दृत्य भवति ॥
अनीशो वा कुर्याद् भुवन जनने कः परिकरो।
यतो मन्दास्त्वां प्रत्य मरवर संशेरत इमे॥
त्रयी साङ्खयं योगः पशुपति मतं वैष्णव मिति।
प्रभिन्ने प्रस्थाने परमिद मदः पथ्य मिति च॥
रुचीनां वैत्रित्र्या दृजु कुटिल नाना पथ जुषां।
नृणामेको गम्यस्त्व मसि पयसामर्णव इव॥
महोक्षः खट्वाङ्गं परशुर जिनं भस्म फणिनः।
कपालं चेतीय त्तव वरद तन्त्रो पकरणम्॥
सुरास्तां तामृद्धिं दधति तु भवद् भ्रू प्रणिहितां।
न हि स्वात्मा रामं विषय मृग तृष्णा भ्रमयति॥
ध्रुवं कश्चित् सर्वं सकलम परस्त्व ध्रुव मिदं।
परो ध्रौव्या ऽध्रौव्ये जगति गदति व्यस्त विषये॥
समस्ते ऽप्येतस्मिन् पुर मथन तैर् विस्मित इव।
तवैश्वर्यं यत्नाद्यदु परि विरञ्चिर् हरि रधः।
परिच्छेत्तुं याता वनल मनलस् कन्धवपुषः॥
ततो भक्ति श्रद्धा भरगुरु गृणद्भ यां गिरिश यत्।
स्वयं तस्थे ताभ्यां तव किमनु वृत्तिर्न फलति॥
अयत्नादा पाद्य त्रिभुवनम वैर व्यति करं।
दशास्यो यद् बाहून भृत रणकण्डू पर वशान्॥
शिरः पद्मश्रेणी रचित चरणाम् भोरुह बलेः।
स्थिरा यास्त्वद्भक्ते स्त्रि पुरहर विस्फूर्जित मिदम्॥
अमुष्य त्वत्सेवा समधि गत सारं भुजवनं।
बलात् कैलासेऽपि त्वदधि वसतौ विक्रमयतः॥
अलभ्या पाताले ऽप्यलस चलिताङ् गुष्ठ शिरसि।
प्रतिष्ठा त्वय्या सीद् ध्रुवमुप चितो मुह्यति खलः॥
यदृद्धि सुत्राम्णो वरद परमोच्चै रपि सतीम।
धश्चक्रे बाणः परजिन विधेय स्त्रि भुवनः॥
न तच्चित्रं तस्मिन् वरि वसितरि त्वच्च रणयोर्न।
कस्याऽप्युन्नत्यै भवति शिर सस्त्वय् यवनतिः॥
अकाण्ड ब्रह्माण्ड क्षय चकित देवासुर कृपा विधे।
यस्या ऽऽसीद् यस्त्रि नयन विषं संहृत वतः॥
स कल्माषः कण्ठे तव न कुरुते न श्रिय महो।
विकारोऽपि श्लाघ्यो भुवन भय भङ्ग व्यस निनः॥
असिद्धार्था नैव क्वचि दपि सदेवा सुरनरे।
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः॥
स पश्यन्नीश त्वामितर सुर साधारणम भूत्।
स्मरः स्मर्त व्यात्मा न हि वशिषु पथ्यः परिभवः॥
मही पादा घाताद् व्रजति सहसा संशय पदं।
पदं विष्णोर् भ्राम्यद् भुजपरिघ रुग्ण ग्रहगणम्॥
मुहुर्द्योर् दौस्थ्यं यात्य निभृत जटा ताडित तटा।
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥
वियद् व्यापी तारागण गृणित फेनोद् गम रुचिः।
प्रवाहो वारां यः पृषतल धुदृष्टः शिरसि ते॥
जगद् द्वीपाकारं जलधि वलयं तेन कृतमित्यने।
नैवोन्ने यं धृत महिम दिव्यं तव वपुः॥
रथः क्षोणी यन्ता शतधृति रगेन्द्रो धनु रथो।
रथाङ्गे चन्द्राऽर्कौ रथचरण पाणिः शर इति॥
दिधक्षोस्ते कोऽयं त्रिपुर तृणमा डम्बर विधिर्।
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥
हरिस्ते साहस्त्रं कमल बलि माधाय पदयोर्।
यदेकोन तस्मिन्निज मुद हरन्नेत्र कमलम्॥
गतो भक्तयुद्रेकः परिण तिमसौ चक्र वपुषा।
त्रयाणां रक्षायै त्रिपुहर जागर्ति जगताम् ॥
क्रतौ सुप्ते जाग्रत्त्व मसि फल योगे क्रतु मतां।
क्व कर्म प्रध्वस्तं फलति पुरुषा राधन मृते॥
अतस्त्वं सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं।
श्रुतौ श्रद्धा बद्ध्वा कृत परिकरः कर्म सु जनः॥
क्रिया दक्षो दक्षः क्रतुपति रधीशस्तु नु भृताम्।
ऋषी णामार्त्विज्यं शरणद सदस्याः सुरगणाः॥
क्रतुर् भ्रेषस्त्वत्तः क्रतुफल विधान व्यसनिनो।
ध्रुवं कर्तः श्रद्धा विधुर मभिचाराय हि मखाः॥
प्रजानाथं नाथ प्रसभम भिकं स्वां दुहितरं।
गतं रोहिद् भूतां रिरमयिषु मृष्यस्य वपुषा॥
धनुष्पाणेर् यातं दिवमपि सपत्रा कृतममुं ।
त्रसन्तं तेऽद्यापि त्यजति न मृगव्या धरभसः॥
स्वाला वण्याशंसा धृत धनुष मह्नाय तृणवत्।
पुरः प्लुष्टं दुष्ट्वा पुरमथन पुष्पायुध मपि॥
यदि स्त्रैणं देवो यमनिरत देहार्ध घटना।
दवैति त्वा मद्धा बत वरद मुग्धा युवतयः॥
स्मशाने ष्वाक्रीडा स्मरहर पिशाचा सहचराश्।
चिता भस्मालेपः स्त्रगपि नृक रोटी परिकरः॥
अमङ्गल्यं शीलं तव भवतु नामैव मखिलं।
तथाऽपि स्मर्तृणां वरद परमं मङ्गल मसि॥
मनः प्रत्यक्चित्ते सविध मवधा यात्त मरुतः।
प्रहृष्य द्रोमाणः प्रमद सलिलोत् सङ्गित दृशः॥
यदा लोक्याह् लादं ह्रद इव निमज्ज्या मृतमये।
दधत् यन्तस् तत्त्वं किमपि यमिनस्तत् किल भवान्॥
त्वमर् कस्त्वं सोमत्व मसि पवनस् त्वं हुत वहस्त्व।
मापस्त्वं व्योम त्वमु धरणि रात्मात्व मिति च॥
परिच्छिन् नामेव त्वयि परिणता बिभ्रतु गिरं।
न विद्मास्त त्त्त्त्वं वयमिह तु यत्त्वं न भवसि॥
त्रयीं तिस्त्रो वृत्तीस्त्रि भुवन मथो त्रीनपि सुरानका।
रार्घैर्वर्णै स्त्रिभिर भिदधत् तीर्ण विकृति॥
तुरीयं ते धाम ध्वनि भिर वरुन्धान मणुभिः।
समस्तं व्यास्तं त्वां शरणद गृणात्यो मिति पदम्॥
भवं शर्वो रुद्रः पशुपति रथोग्रः सह महांस्।
तथा भीमेशा नाविति यदभिधा नाष्टक मिदम्॥
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुति रपि।
प्रियायाऽस्मै धाम्ने प्रविहित नमस्योऽस्मि भवते॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो।
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः॥
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः।
नमः सर्वस्मै ते तदि दमिति शर्वाय च नमः॥
बहल रजसे विश्वोत् पत्तौ भवाय नमो नमः।
प्रबल तमसे तत्संहारे हराय नमो नमः॥
जन मुख कृते सत्त्वोद्रिक्तौ मृडाय नमो नमः।
प्रमहसि पदे निस्त्रै गुण्ये शिवाय नमो नमः॥
कृश परिणति चेतः क्लेश वश्यं क्व चेदं।
क्व च तव गुणसी मोल्लङ्गिनी शश्वदृद्धिः॥
इति चकितम मन्दी कृत्य मां भक्ति राधाद्।
वरद चरण योस्ते वाक्य पुष्पो पहारम्॥
असित गिरिसमं स्यात् कज्जलं सिन्धु पात्रे।
सुरत रुवर शाखा लेखनी पत्र मुर्वी॥
लिखति यदि गृहीत्वा शारदा सर्वकालं।
तदपि तव गुणानामीश पारं न याति॥
असुर सुर मुनीन्द्र रर्चित स्येन्दु मौलेर्ग्र।
थित गुण महिम्नो निर्गुणस्ये श्वरस्य॥
सकल गुण वरिष्ठः पुष्पदन्ता भिधानो।
रुचिर मल घुवृत्तैः स्तोत्र मेतच्च कार॥
अहर हर नवद्यं धूर्जटेः स्तोत्र मेतत्।
पठति परमा भक्तिया शुद्धचित्तः पुमान् यः ॥
स भवति शिव लोके रुद्र तुल्यस् तथाऽत्र ।
प्रचुर तर धनायुः पुत्रवान् कीर्ति मांश्च॥
महेशान्ना ऽपरो देवो महिम्नो ना ऽपरा स्तुतिः ।
अधोरान् नाऽपरो मन्त्रो नास्ति तत्त्वं गुरोः परम्॥
दीक्षा दानं तपस्तीर्थं ज्ञान यागादिकाः क्रियाः।
महिम्नस् तव पाठस्य कलां नार्हन्ति षोडशीम्॥
कुसुम दशन नामा सर्व गन्धर्व राजः।
शशिधर वरमौलेर् देव देवस्य दासः॥
सगुरु निज महिम्नो भ्रष्ट एवास्य रोषात्।
स्तवनमिदम कार्षीद् दिव्य दिव्यं महिम्नः॥
सुरवर मुनि पूज्यं स्वर्ग मोक्षैक हेतुं।
पठति यदि मनुष्यः प्राञ्जलिर् नाऽन्यचेताः॥
व्रजति शिव समीपं किन्नरैः स्तूय मानः।
स्तवनमिद ममोधं पुष्पदन्त प्रणीतम्॥
आसमाप्त मिदं स्तोत्रं पुण्यं गन्धर्व भाषितम्।
अनौपम्यं मनोहारि शिवमीश्वर वर्णनम्॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशो ऽसि महादेव तादृशाय नमो नमः॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपाप विनिर्मुक्तः शिवलोके महीयते॥
श्रीपुष्पदन्त मुख पङ्कज निर्गतेन।
स्तोत्रेण किल्बिष हरेण हरप्रियेण॥
कण्ठ स्थितेन पठतेन समाहितेन।
सुप्रीणितो भवति भूतपतिर् महेशः॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर पादयोः।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥
॥ इति श्रीपुष्पदन्त विरचितं शिव महिम्नः स्तो समाप्तम् ॥
Social Plugin