भगवती ध्यानम्
या कुन्देन्दुतु षार हार धवला या शुभ्र वस्त्रा वृता ।
या वीणा वर दण्ड मण्डित करा या श्वेत पद्मासना ।।
या ब्रह्माच्युत शङ्कर प्रभृति भिर्देवैः सदा वन्दिता ।
सा मां पातु सरस्वती भगवती निःशेष जाडया पहा ।।
ॐ वीणापुस्तक धारिण्यै श्री सरस्वत्यै नमः ।।
प्रतिष्ठा
ॐ मनो जूतिर् जुषता माज्यस्य बृहस्पतिर् यज्ञमिमं तनो त्वरिष्टं यज्ञ गुँग समिमं दधातु विश्वे देवास इह माद यन्तामो३ म्प्रतिष्ठ ।।
ॐ अस्यै प्राणा प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्व मर्चायै मामहेति च कश्चन ।।
आवाहन
सर्व लोकस्य जननीं सर्व सौख्य प्रदायिनीम् ।
सर्व देव मयी मीशां देवी मावाह याम्यहम् ।।
ॐ महा सरस्वत्यै नमः सरस्वती मावाहयामि आवाहनार्थे पुष्पाणि समर्पयामि ।।
आसन
तप्त काञ्चन वर्णाभं मुक्ता मणि विरा जितम् ।
अमलं कमलं दिव्य मासनं प्रतिगृह्यताम ।।
ॐ महा सरस्वत्यै नमः आसनं समर्पयामि ।
पाद्य
गङ्गा दितीर्थ सम्भूतं गन्ध पुष्पादि भिर्युतम् ।
पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ।।
ॐ महा सरस्वत्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्य
अष्ट गन्ध समायुक्तं स्वर्ण पात्र प्रपूरि तम् ।
अर्घ्य गृहाण मद्दंत्तं महासरस्वती नमोऽस्तु ते ।।
ॐ महा सरस्वत्यै नमः हस्तयो रर्घ्यं समर्पयामि ।
आचमन
सर्व लोकस्य या शक्तिर् ब्रह्म विष्ण्वा दिभिः स्तुता ।
ददाम्या चमनं तस्यै महासरस्वत्यै मनोहरम् ।।
ॐ महा सरस्वत्यै नमः आचमनीयं जलं समर्पयामि ।
स्नान
मन्दा किन्याः समानीतैर् हेमाम्भो रुह वासितैः ।
स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धि भिः ।।
ॐ महा सरस्वत्यै नमः स्नानं समर्पयामि ।
दुग्ध स्नान
कामधेनु समुत्पन्नं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थ मर्पितम् ।।
ॐ महा सरस्वत्यै नमः पयःस्नानं समर्पयामि ।
दधिस्नान
पयसस्तु समद्भूतं मधुराम्लं शशि प्रभम् ।
दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः दधिस्नानं समर्पयामि । दधिस्नानान्ते शुद्धोदक स्नानं समर्पयामि ।
घृत स्नान
नवनीत समुत्पन्नं सर्व संतोष कारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः घृतस्नानं समर्पयामि ।
मधुस्नान
तरुपुष्प समुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः मधुस्नानं समर्पयामि । मधुस्ना नान्ते शुद्धोदक स्नानं समर्पयामि ।
शर्करास्नान
इक्षु सार समुद्भूता शर्करा पुष्टि कारिका ।
मलापहारिका दिव्य स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः शर्करा स्नानं समर्पयामि शर्करा स्नानान्ते पुनः शुद्धोदक स्नानं समर्पयामि ।
पञ्चामृतस्नान
ॐ पयो दधि घृतं चैव मधु शर्कर यान्वितम् ।
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः पञ्चामृत स्नानं समर्पयामि पञ्चामृत स्नानान्ते शुद्धोदक स्नानं समर्पयामि ।
गन्धोदक स्नान
मलयाचल सम्भूतं चन्दना गरु सम्भवत् ।
चन्दनं देव देवेशि स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः गन्धोदक स्नानं समर्पयामि ।
शुद्धोदक स्नान
मन्दाकिन्यास्तु यद्वारि सर्वपाप हरं शुभम् ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः शुद्धोदक स्नानं समर्पयामि ।
वस्त्र
दिव्याम्बरं नूतनं हि क्षौमं त्वति मनोहरम् ।
दीयमानं मया देवि गृहाण जगदम्बिके ।।
ॐ महा सरस्वत्यै नमः वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
उपवस्त्र
कञ्चु कीमुप वस्त्रं च नाना रत्नैः समन्वितम् ।
गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि ।।
ॐ महा सरस्वत्यै नमः उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
मधुपर्क
कांस्ये कांस्येन पिहितो दधि मध्वा ज्य संयुतः ।
मधुपर्को मयानीतः पूजार्थं प्रति गृह्यताम् ।।
ॐ महा सरस्वत्यै नमः मधुपर्कं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
आभूषण
रत्न कङ्कण वैदूर्य मुक्ता हारादि कानि च ।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भोः ।।
ॐ महा सरस्वत्यै नमः नाना विधानि कुण्डल कटकादीनि आभूषणानि समर्पयामि ।
गन्ध
श्रीखण्डं चन्दनं दिव्य गन्धाढयं सुमनो हरम् ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रति गृह्यताम् ।।
ॐ महा सरस्वत्यै नमः गन्धं समर्पयामि ।
रक्त चन्दन
रक्त चन्दन सम्मिश्रं पारिजात समुद्भवत् ।
मया दत्तं महालक्ष्मि चन्दनं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः रक्तचन्दनं समर्पायामि ।
सिन्दूर
सिन्दूरं रक्त वर्णं च सिन्दूर तिलक प्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्मताम् ।।
ॐ महा सरस्वत्यै नमः सिन्दूरं समर्पयामि ।
कुङ्कुम
कुङ्कुमं कामदं दिव्यं कुङ्कुमं काम रूपिणम् ।
अखण्ड काम सौभाग्यं कुङ्कुमं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः कुङ्कुम समर्पयामि ।
पुष्पासार ( इतर )
तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ।।
ॐ महा सरस्वत्यै नमः सुगन्धित इतरं पुष्पसारं च समर्पयामि ।
अक्षत
अक्षताश्च सुरश्रेष्ठे कुङ्कुमा क्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वरि ।।
ॐ महा सरस्वत्यै नमः अक्षतान् समर्पयामि ।
पुष्प एवं पुष्पमाला
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयानीतानि पुष्पाणि पूजार्थं प्रति गृह्यताम् ।।
ॐ महा सरस्वत्यै नमः पुष्पं पुष्पमालां च समर्पयामि ।
दूर्वा
विष्ण्वादि सर्व देवानां प्रियां सर्व सुशोभनाम् ।
क्षीर सागर सम्भूते दूर्वां स्वीकुरु सर्वदा ।।
ॐ महा सरस्वत्यै नमः दूर्वाङ्कुरान् समर्पयामि ।
अबीर गुलाल
अबीरं च गुलालं च हरिद्रादि समन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ।।
ॐ महा सरस्वत्यै नमः नानापरिमल द्रव्याणि समर्पयामि ।।
धूप
वनस्पति रसोद् भूतो गन्धाढयः सुमनो हरः।
आघ्रेयः सर्व देवानां धूपोऽयं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः धूपमाघ्रापयामि ।
दीप
कार्पा सवर्ति संयुक्तं घृत्तयुक्तं मनोहरम् ।
तमोनाश करं दीपं गृहाण परमेश्वरि ।।
ॐ महा सरस्वत्यै नमः दीपं दर्शयामि ।
नैवेद्य
नैवेद्यं गृह्यतां देवि भक्ष्य भोज्य समन्वितम् ।
षड्रर सैरन्वितं दिव्यं लक्ष्मि देवि नमोऽस्तु ते ।।
ॐ महा सरस्वत्यै नमः नैवेद्यं निवेदयामि, मध्ये पानीयम् , उत्तरापो ऽशनार्थं हस्त प्रक्षालनार्थं मुख प्रक्षालनार्थं च जलं समर्पयामि ।
आचमन
शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।
आचम्यतां जलं ह्येतत् प्रसीद परमेश्वरि ।।
ॐ महा सरस्वत्यै नमः आचमनीयं जलं समर्पयामि ।
ऋतुफल
फलेन फलितं सर्वं त्रैलोक्यं स चराचरम् ।
तस्मात् फल प्रदानेन पूर्णाः सन्तु मनोरथाः ।।
ॐ महा सरस्वत्यै नमः अखण्ड ऋतु फलं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
ताम्बूल पूगीफल
पूगीफलं महद् दिव्यं नाग वल्ली दलैर्युतम् ।
एला चूर्णादि संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।
ॐ महा सरस्वत्यै नमः मुखवा सार्थे ताम्बूलं समर्पयामि ।
दक्षिणा
हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः ।
अनन्त पुण्य फल दमतः शान्तिं प्रयच्छ मे ।।
ॐ महा सरस्वत्यै नमः दक्षिणां समर्पयामि ।
नीराजन
चक्षुर्दं सर्व लोकानां तिमिरस्य निवारणम् ।
आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ।।
ॐ महा सरस्वत्यै नमः नीराजनं समर्पयामि ।
प्रदक्षिणा
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।।
ॐ महा सरस्वत्यै नमः प्रदक्षिणां समर्पयामि ।
प्रार्थना
घोर रूपे महारावे सर्व शत्रु भयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।
ॐ सुरा ऽसुरार्चिते देवि सिद्धगन्धर्व सेविते ।
जाडय पापहरे देवि त्राहि मां शरणागतम् ।।
जटाजूट समायुक्ते लोल जिह्वान्त कारिणी ।
द्रुत बुद्धिकरे देवि त्राहि मां शरणागतम् ।।
सौम्य क्रोध धरे रूपे चण्डरूपे नमोऽस्तु ते ।
सष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ।।
जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ।।
वं ह्रूं ह्रूं कामये देवि बलि होम प्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ।।
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ।
मूढत्वां च हरेद् देवि त्राहि मां शरणागतम् ।।
इन्द्रादि विलसद् द्वन्द्व वन्दिते करुणा मयि।
तारे ताराधि नाथास्ये त्राहि मां शरणागतम् ।।
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ।।
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्क व्याकरणा दिकम् ।।
इदं स्तोत्र पठेद्यस्तु सततं श्रद्धया ऽन्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ।।
पीडायां वाऽपि संग्रामे जाडयं दाने तथा भये ।
य इदं पठति स्तोत्रं शुभं तस्य न संशयः ।।
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ।।
समर्पण
ॐ कृतेना नेन पूजनेन भगवती महा सरस्वती देवी प्रीयताम् , न मम ।
माँ सरस्वती आरती
जय सरस्वती माता , मैया जय सरस्वती माता ।
सद्गुण वैभव शालिनि , त्रिभुवन विख्याता ।।
जय सरस्वती माता , मैया जय सरस्वती माता
चन्द्रवदनि पद्मासनि , द्युति मंगलकारी ।
सोहे शुभ हंस सवारी , अतुल तेजधारी ।।
जय सरस्वती माता , मैया जय सरस्वती माता
बाएँ कर में वीणा , दाएँ कर माला ।
शीश मुकुट मणि सोहे , गल मोतियन माला ।।
जय सरस्वती माता , मैया जय सरस्वती माता
देवि शरण जो आए , उनका उद्धार किया ।
पैठि मंथरा दासी , रावण संहार किया ।।
जय सरस्वती माता , मैया जय सरस्वती माता
विद्या ज्ञान प्रदायिनी ज्ञान प्रकाश भरो ।
मोह , अज्ञान तिमिर का , जग से नाश करो ।।
जय सरस्वती माता , मैया जय सरस्वती माता
धूप दीप फल मेवा , माँ स्वीकार करो ।
ज्ञानचक्षु दे माता , जग निस्तार करो ।।
जय सरस्वती माता , मैया जय सरस्वती माता
माँ सरस्वती की आरती , जो कोई जन गावे ।
हितकारी सुखकारी , ज्ञान भक्ति पावे ।।
जय सरस्वती माता , मैया जय सरस्वती माता
Social Plugin