न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो 
न चाह्वानं ध्यान तदपि च न जाने स्तुतिकथाः । 
न जाने मुद्रास्ते तदपि च न जाने विलपनं 
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 


विधेर ज्ञानेन द्रविण विरहेणा लसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥


पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरला :
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 


जगन्मातर्मातस्तव चरणसेवा न रचिता 
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति 


परित्यक्ता देवा विविध विधिसेवाकुलतया
मया पञ्चाशीते रधिक मपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥

 
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटि कनकैः । 
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं 
जनः को जानीते जननि जपनीयं जपविधौ ॥


चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैक पदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ।। 

 
न मोक्षस्याकाङ्गा भवविभववाञ्छापि च न मे
न विज्ञा ना पेक्षा शशिमुखि सुखेच्छापि न पुनः । 
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ।।


नाराधितासि विधिना विविधोपचारैः 
किं रुक्षचिन्तन परैर्न कृतं वचोभिः । 
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥


आपत्सु मग्नः स्मरणं त्वदीयं 
करोमि दुर्गे करुणार्णवेशि । 
नैतच्छठत्वं मम भावयेथाः 
क्षुधातृषार्ता जननीं स्मरन्ति ॥ 


जगदम्ब विचित्रमत्र किं 
परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् 


मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि । 
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥ 




।। इति श्रीशङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ।। 


Pandit ji for puja
Sanskrit Acharya Pandit Mani Bhushan
Contact No :- +917042351165
Website :-
https://www.panditforworship.com