अङ्ग हरेः पुलकभूषणमाश्रयन्ती 
भृङ्गाङ्गनेव मकुलाभरणं तमालम् ।
अङ्गीकृता खिल विभूतिर पाङ्गलीला
मागल्य दाऽस्तु मम मङ्गलदेवतायाः ॥ १ ॥ 

मुग्धा मुहुर्विदधती वदने मुरारे :
प्रेमत्र पाणिहितानि गतागतानि । 
माला दृशोर्मधुक रीव महोत्पले 
या सा मे श्रियं दिशतु सागर सम्भवायाः ॥ २ ॥
विश्वा मरेन्द्र पदवि भ्रमदान दक्षमा
नन्द हेतु रधिकं मुरवि द्विषोऽपि । 
ईषन्नि षीदतु मयि क्षण मीक्षणार्ध
मिन्दीवरो दर महोदरपिन्दिरायाः ॥ ३ ॥
आमीलिता क्षम धिगम्य मुदा मुकुन्द
मानन्द कन्दमनि मेष मनङ्गतन्त्रम् ।
आके कर स्थित कनी निकपक्ष्म नेत्रं 
भूत्यै भवेन्मम भुजङ्ग शयाङ्गनायाः ॥ ४ ॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या 
हाराव लीव हरि नीलमयी विभाति । 
कामप्रदा भगवतोऽपि कटाक्ष माला
कल्याण मावहतु मे कमला लयायाः ॥ ५ ॥
कालाम्बु दालिल लितोरसि कैटभारेर्
धाराधरे स्फुरति या तडिदङ्गनेव । 
मातुः समस्तजगतां महनीय मूर्तिर्
भद्राणि मे दिशतु भार्गव नन्दनायाः ॥ ६ ॥
प्राप्तं पदं प्रथमतः किल यत्प्रभावान्
मङ्गल्य भाजि मधुमाथिनि मन्मथेन ।
मय्या पतेत्त दिह मन्थरमीक्षणार्धं 
मन्दा लसं च मकरालय कन्यकायाः ॥ ७ ॥
दद्याद्द यानु पवनो द्रविणाम्बुधारा
मस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे ।
दुष्कर्म धर्मम पनीय चिराय दूरं 
नारायण प्रणयिनी नयनाम्बुवाहः ॥ ८ ॥ 
इष्टा विशिष्टम तयोऽपि यया दयार्द्र 
दृष्ट्या त्रिविष्टप पदं सुलभं लभन्ते । 
दृष्टिः प्रहष्टकमलोदर दीप्तिरिष्टां 
पुष्टि कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥
गीर्देव तेति गरुडध्वज सुन्दरीति 
शाकम्भ रीति शशिशेखर वल्लभेति ।
सृष्टिस्थिति प्रलयकेलिषु संस्थितायै 
तस्यै नमस्त्रिभुवनैकगुरोस्त रुण्यै ॥ १० ॥
श्रुत्यै नमोऽस्तु शुभकर्म फल प्रसूत्यै 
रत्यै नमोऽस्तु रमणीय गुणार्ण वायै । 
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै 
पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ॥ ११ ॥
नमोऽस्तु नालीकनि भाननायै 
नमोऽस्तु दुग्धोदधिजन्मभूत्यै । 
नमोऽस्तु सोमामृत सोदरायै 
नमोऽस्तु नारायण वल्लभायै ।। १२ ।।
सम्पत्कराणि सकलेन्द्रिय नन्दनानि
साम्राज्य दान विभवानि सरोरुहाक्षि ।
त्वद्वन्द नानि दुरिता हरणोद्य तानि 
मामेव मातर निशं कलयन्तु मान्ये ॥ १३ ॥
यत्कटाक्ष समुपासना विधिः 
सेवकस्य सकलार्थ सम्पदः । 
संतनोति वचनाङ्ग मान सैस्त्वां 
मुसारे ह्रदयेश्वरी   भजे ॥ १४ ॥
सरसिज निलये सरोज हस्ते
धवल तमांशुक गन्धमाल्य शोभे । 
भगवति हरिवल्लभे मनोज्ञे 
त्रिभुवन भूतिकरि प्रसीद मह्यम् ॥ १५ ॥
दिग्घ स्तिभिः कनक कुम्भ मुखाव
सृष्ट स्वर्वाहिनी विमलचारु जलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीम शेष 
लोकाधिनाथ गृहिणीम मृताब्धिपुत्रीम् ॥ १६ ॥
कमले कमलाक्ष वल्लभे त्वं
करुणा पूरत रङ्गि तैर पाङ्गैः । 
अवलोकय मामकिञ्च नानां 
प्रथमं पात्रम कृत्रिमं दयायाः ॥ १७ ॥ 
स्तुवन्ति ये स्तुति भिर मू भिरन्वहं 
त्रयीमयीं त्रिभुवन मातरं रमाम् । 
गुणाधिका गुरुतर भाग्य भागिनो 
भवन्ति ते भुवि बुध भाविताशयाः ॥ १८ ॥ 

श्रीभगवत्पादशङ्करविरचितं कनकधारास्तोत्रं सम्पूर्णम्