कलश स्थापना मंत्र पूजा
भूमि का स्पर्श
ॐ भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्य भुवनस्य धर्ती पृथिवीं यच्छ पृथिवीं दृ गूँग ह पृथिवीं मा हि गूँग सीः ।।
धान्य स्पर्श
ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वो दानाय त्वा व्यानाय त्वा दीर्घामनु प्रसिति मायुषे धां देवो वः सविता हिरण्य पाणिः प्रति गृभ्णा त्वच्छि द्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ।।
कलश स्थापन
ॐ आ जिघ्र कलशं मह्या त्वा विशन्त्विन् दवः पुनरूर्जा नि वर्तस्व सा नः सहस्त्रं धुक्ष्वो रुधारा पयस्वती पुनर्मा विशता द्रयिः ।।
कलश में जल
ॐ वरुणस्यो त्तम्भनमसि वरुणस्य स्कम्भ सर्जनी स्थो वरुणस्य ऋण सदन्यसि वरुणस्य ऋतसदन मसि वरुणस्य ऋतसदनमा सीद ।।
कलश में चन्दन
ॐ त्वां गन्धर्वा अखनँस् त्वामिन्द्रस् त्वां बृहस्पतिः त्वामोषधे सोमो राजा विद्वान् यक्ष्माद मुच्यत ।।
कलश में सर्वौषधि
ॐ या ओषधीः पूर्वा जाता देवेभ्य स्त्रियुगं पुरा मनै नु बभ्रूणा मह गुँग शतं धामानि सप्त च ।।
कलश में दूर्वा
ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस् परि एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ।।
कलश पर पञ्च पल्लव
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता गोभाज इत्किला सथ यत्सन वथ पूरुषम् ।।
कलश में पवित्री
ॐ पवित्रे स्थो वैष्ण व्यौ सर्वितुर्वः प्रसव उत्पुनाम्य च्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तस्य ते पवित्रपते पवित्र पूतस्य यत्कामः पुने तच्छकेयम् ।।
कलश में सप्तमृत्तिका
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी यच्छा नः शर्म सप्रथाः ।।
कलश में सुपारी
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुँग हंसः ।।
कलश में पञ्चरत्न
ॐ परि वाजपतिः कविरग्निर् हव्यान्य क्रमीत् दधद्रत्नानि दाशुषे ।।
कलश में द्रव्य
ॐ हिरण्य गर्भः समवर्त ताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम ।।
कलश पर वस्त्र
ॐ सुजातो ज्योतिषा सह शर्म वरूथमा ऽसदत्स्वः वासो अग्ने विश्वारूप गुँग सं व्ययस्व विभावसो ।।
कलश पर पूर्णपात्र
ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत वस्नोव विक्रीणा वहा इष मूर्ज गुँग शतक्रतो ।।
कलश पर नारियल
ॐ याः फलि नीर्या अफला अपुष्पा याश्च पुष्पिणीः बृहस्पति प्रसूतास्ता नो मुञ्चन् त्व गुँग हंसः ।।
कलश में वरुण का ध्यान और आवाहन
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस् तदा शास्ते यजमानों हविर्भिः अहेडमानो वरुणेह बोध्यु रुश गुँग स मा न आयुः प्र मोषीः ।।
अस्मिन् कलशे वरुणं साङ्ंग सपरिवारं सायुधं सशक्तिक मावाहयामि ॐ भूर्भुवः स्वः भो वरुण इहागच्छ, इह तिष्ठ, स्थापयामि, पूजयामि, मम पूजां गृहाण ॐ अपां पतये वरुणाय नमः ।
कलश में देवी देवताओं का आवाहन
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।।
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदो ऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ।।
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ।
आयान्तु देवपूजार्थं दुरितक्ष कारकाः ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।।
नर्मदे सिन्धुकावेरि जले अस्मिन् संनिधिं कुरु ।
सर्वे समुद्राः सरितस्तीर् थानि जलदा नदाः ।।
आयान्तु मम शान्त्यर्थं दुरित क्षय कारकाः ।।
प्रतिष्ठा
ॐ मनो जूतिर् जुष तामाज्यस्य बृहस्पतिवार यज्ञ गुँग समिमं दधातु विश्वे देवास इह मादयन्ता मो३ म्प्रतिष्ठ ।।
कलशे वरुणाद्यावाहित देवताः सुप्रतिष्ठिता वरदा भवन्तु ॐ वरुणाद्यावाहित देवताभ्यो नमः ।।
प्रार्थना
देवदानव संवादे मथ्य माने महो दधौ ।
उत्पन्नो ऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ।।
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ।।
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः ।।
त्वयि तिष्ठन्ति सर्वे ऽपि यतः काम फलप्रदाः ।
त्वत्प्रसा दादिमां पूजां कर्तुमीहे जलोद्भव ।।
सांनिध्यं कुरू मे देव प्रसन्नो भव सर्वदा ।
नमो नमस्ते स्फटिक प्रभाय सुश्वेत हाराय सुमङ्गलाय ।
सुपाश हस्ताय झषासनाय जलाधि नाथाय नमो नमस्ते ।।
ॐ अपां पतये वरुणाय नमः
ॐ वरुणाद्यावाहित देवताभ्यो नमः, प्रार्थना पूर्वकं नमस्कारान् समर्पयामि ।
समर्पण
कृतेन अनेन पूजनेन कलशे वरूणाद्या वाहित देवताः प्रीयन्तां न मम ।।
Social Plugin