गोविन्दं गोकुला नन्दं गोपालं गोपि वल्लभम्।
गोवर्धनोद्धरं धीरं तं वन्दे गोमती प्रियम्॥
नारायणं निराकारं नरवीरं नरोत्तमम्।
नृसिंहं नागनाथं च तं वन्दे नरकान्त कम् ॥

पीताम्बरं पद्म नाभं पद्माक्षं पुरुषोत्तमम्।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥
राघवं रामचन्द्रं च रावणा ऽरिं रमापतिम्।
राजीव लोचनं रामं तं वन्दे रघुनन्दनम्॥

वामनं विश्वरूपं च वासुदेवं च विट्ठलम्।
विश्वेश्वरं विभुं व्यासं तं वन्दे देवकीसुतम्॥
दामोदरं दिव्यसिंहं दयालुं दीन नायकम्।
देत्यारिं देव देवेशं तं वन्दे देवकीसुतम्॥

मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टि मर्दनम्।
मुञ्जकेशं महाबाहुं तं वन्दे मधु सूदनम्॥
केशवं कमला कान्तं कामेशं कौस्तुभ प्रियम्।
कौमोदकी धरं कृष्णं तं वन्दे कौरवान्त कम्॥

भूधरं भुवना नन्दं भूतेशं भूतनाय कम्।
भावनैकं भुजङ्गेशं तं वन्दे भावनाशनम्॥
जनार्दनं जगन्नाथं जगज्जाडय विनाशकम्।
जामदग्निं वरं ज्योतिस्तं वन्दे जलशायिनम्॥

चतुर्भुजं चिदानन्दं चाणूर मल्लमर्दनम्।
चराऽचरगतं देवं तं वन्दे चक्रपाणिनम्॥
श्रियःकरं श्रियो नाथं श्रीधरं श्रीवरप्रदम्।
श्रीवत्सल धरं सौम्यं तं वन्दे श्रीसुरेश्वरम्॥

योगीश्वरं यज्ञपतिं यशोदानन्द दायकम्।
यमुनाजल कल्लोलं तं वन्दे यदुनायकम्॥
शालिग्राम शिला शुद्धं शङ्खचक्रोप शोभितम्।
सुराऽसुर सदासेव्यं तं वन्दे साधु वल्लभम्॥

त्रिविक्रमं तपोमूर्तिं त्रिविधा ऽघौघ नाशनम्।
त्रिस्थलं तीर्थ राजेन्द्रं तं वन्दे तुलसी प्रियम्॥
अनन्तमादि पुरुष मच्युतं च वरप्रदम्।
आनन्दं च सदाऽऽनन्दं तं वन्दे चाऽघनाशनम्॥

लीलया धृत भूभारं लोक सत्त्वैक वन्दितम्।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मण प्रियम्॥
हरिं च हरिणाक्षं च हरि नाथं हरि प्रियम्।
हलायुध सहायं च तं वन्दे हनुमत् पतिम्॥


हरिनाम कृता माला पवित्रा पाप नाशिनी।
बलि राजेन्द्रेण चोक्ता कण्ठे धार्या प्रयत्नतः॥


॥इति बलिराजेन्द्रेणोक्तं हरिनाम मालास्तोत्रं सम्पूर्णम्॥