ॐ विश्वेश्वरी जगद्धात्री स्थितिसंहारकारिणीम् । 
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १ ॥ 
ब्रह्मोवाच 
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । 
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥ 
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः । 
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥ ३ ॥ 
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् । 
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ ४ ॥ 
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने । 
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥५ ॥ 
महाविद्या महामाया महामेधा महास्मृतिः । 
महामोहा च भवती महादेवी महासुरी ॥ ६ ॥ 
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी । 
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।। ७ ॥ 
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । 
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः शान्तिरेव च ॥ ८ ॥ 
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । 
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥ ९ ॥ 
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी । 
परापराणां परमा त्वमेव परमेश्वरी ॥१० ॥ 
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके । 
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥११ ॥ 
यया त्वया जगत्स्स्रष्टा जगत्पात्यत्ति यो जगत् । 
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ १२ ॥ 
विष्णुः शरीरग्रहणमहमीशान एव च । 
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ १३ ॥ 
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । 
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥१४ ॥ 
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु । 
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरी ॥१५ ॥


। इति रात्रिसूक्तम् ।