न तातो न माता न बन्धुर् न दाता ,
न पुत्रों न पुत्री न भृत्यो न भर्ता  ।
न जाया न विद्या न वृत्तिर्ममैव   ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।।

भवाब्धाव पारे महा दुःख भीरुः  ,
पपात प्रकामी प्रलोभी प्रमत्तः  ।
कुसंसार पाश प्रबद्धः सदाऽहं  ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।।

न जानामि दानं न च ध्यान योगं  ,
न जानामि तन्त्रं न च स्तोत्र मन्त्रम् ।
न जानामि पूजा न च न्यास योगं ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।।

न जानामि पुण्यं न जानामि तीर्थं ,
न जानामि मुक्तिं लयं वा कदाचित  ।
न जानामि भक्तिं व्रतं वाऽपि मातर् ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि  ।।

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः  ,
कुलाचार हीनः कदाचार लीनः   ।
कुदृष्टिः कुवाक्य प्रबन्धः सदाऽहं ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।।

प्रजेशं    रमेशं   महेशं    सुरेशं  ,
दिनेशं निशीथेश्र्वरं वा कदाचित् ।
न जानामि चाऽन्यत् सदाऽहं शरण्ये,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।।

विवादे   विषादे   प्रमादे    प्रवासे ,
जले  चाऽनले  पर्वते  शत्रु   मध्ये ।
अरण्ये शरण्ये   सदा मां  प्रपाहि  ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।।

अनाथो दरिद्रो जरा रोग युक्तो
महाक्षीण दीनः सदा जाडयवक्त्रः ।
विपत्तौ प्रविष्टः प्रणष्टः सदाऽहं ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि


।। इति श्रीमच्छ शङ्कराचार्य कृतं भवान्यष्टकं सम्पूर्णम् ।।